Original

शेष उवाच ।सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः ।सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥ ८ ॥

Segmented

शेष उवाच सोदर्या मम सर्वे हि भ्रातरो मन्द-चेतसः सह तैः न उत्सहे वस्तुम् तद् भवान् अनुमन्यताम्

Analysis

Word Lemma Parse
शेष शेष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सोदर्या सोदर्य pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
मन्द मन्द pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
वस्तुम् वस् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अनुमन्यताम् अनुमन् pos=v,p=3,n=s,l=lot