Original

प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् ।न कार्यं तव सोमेन मम सोमः प्रदीयताम् ।अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥ ७ ॥

Segmented

प्रतिगृह्यताम् इदानीम् मे सख्यम् आनन्त्यम् उत्तमम् न कार्यम् तव सोमेन मम सोमः प्रदीयताम् अस्मान् ते हि प्रबाधेयुः येभ्यो दद्याद् भवान् इमम्

Analysis

Word Lemma Parse
प्रतिगृह्यताम् प्रतिग्रह् pos=v,p=3,n=s,l=lot
इदानीम् इदानीम् pos=i
मे मद् pos=n,g=,c=6,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
आनन्त्यम् आनन्त्य pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तव त्वद् pos=n,g=,c=6,n=s
सोमेन सोम pos=n,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
सोमः सोम pos=n,g=m,c=1,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
प्रबाधेयुः प्रबाध् pos=v,p=3,n=p,l=vidhilin
येभ्यो यद् pos=n,g=m,c=4,n=p
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
भवान् भवत् pos=a,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s