Original

स कदाचित्तमुपाध्यायमाहोत्तङ्कः ।आज्ञापयतु भवान् ।किं ते प्रियमुपहरामि गुर्वर्थमिति ॥ ९७ ॥

Segmented

स कदाचित् तम् उपाध्यायम् आह उत्तङ्कः आज्ञापयतु भवान् किम् ते प्रियम् उपहरामि गुरु-अर्थम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
आज्ञापयतु आज्ञापय् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
उपहरामि उपहृ pos=v,p=1,n=s,l=lat
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i