Original

ततस्तमश्विनावूचतुः ।आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः ।उपयुक्तश्च स तेनानिवेद्य गुरवे ।त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति ॥ ७३ ॥

Segmented

ततस् तम् अश्विनाव् ऊचतुः आवाभ्याम् पुरस्ताद् भवत उपाध्यायेन एवम् एव अभिष्टुताभ्याम् अपूपः प्रीताभ्याम् दत्तः उपयुक्तः च स तेन अ निवेद्य गुरवे त्वम् अपि तथा एव कुरुष्व यथा कृतम् उपाध्यायेन इति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अश्विनाव् अश्विन् pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
आवाभ्याम् मद् pos=n,g=,c=3,n=d
पुरस्ताद् पुरस्तात् pos=i
भवत भवत् pos=a,g=m,c=6,n=s
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
एव एव pos=i
अभिष्टुताभ्याम् अभिष्टु pos=va,g=m,c=3,n=d,f=part
अपूपः अपूप pos=n,g=m,c=1,n=s
प्रीताभ्याम् प्री pos=va,g=m,c=3,n=d,f=part
दत्तः दा pos=va,g=m,c=1,n=s,f=part
उपयुक्तः उपयुज् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
निवेद्य निवेदय् pos=vi
गुरवे गुरु pos=n,g=m,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
तथा तथा pos=i
एव एव pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
यथा यथा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
इति इति pos=i