Original

तमुपाध्यायः प्रत्युवाच ।एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति ।तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः ।फेनमपि भवान्न पातुमर्हतीति ॥ ४९ ॥

Segmented

तम् उपाध्यायः प्रत्युवाच एते त्वद्-अनुकम्पया गुणवन्तो वत्साः प्रभूततरम् फेनम् उद्गिरन्ति तद् एवम् अपि वत्सानाम् वृत्ति-उपरोधम् करोष्य् एवम् वर्तमानः फेनम् अपि भवान् न पातुम् अर्हति इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
एते एतद् pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s
गुणवन्तो गुणवत् pos=a,g=m,c=1,n=p
वत्साः वत्स pos=n,g=m,c=1,n=p
प्रभूततरम् प्रभूततर pos=a,g=m,c=2,n=s
फेनम् फेन pos=n,g=m,c=2,n=s
उद्गिरन्ति उद्गृ pos=v,p=3,n=p,l=lat
तद् तद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
अपि अपि pos=i
वत्सानाम् वत्स pos=n,g=m,c=6,n=p
वृत्ति वृत्ति pos=n,comp=y
उपरोधम् उपरोध pos=n,g=m,c=2,n=s
करोष्य् कृ pos=v,p=2,n=s,l=lat
एवम् एवम् pos=i
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
फेनम् फेन pos=n,g=n,c=1,n=s
अपि अपि pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
पातुम् पा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
इति इति pos=i