Original

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच ।अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि ।पीवानसि ।केन वृत्तिं कल्पयसीति ॥ ४३ ॥

Segmented

तम् उपाध्यायस् तथा अपि पीवानम् एव दृष्ट्वा पुनः उवाच अहम् ते सर्वम् भैक्षम् गृह्णामि न च अन्यत् चरसि पीवान् असि केन वृत्तिम् कल्पयसि इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायस् उपाध्याय pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
पीवानम् पीवस् pos=a,g=m,c=2,n=s
एव एव pos=i
दृष्ट्वा दृश् pos=vi
पुनः पुनर् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
गृह्णामि ग्रह् pos=v,p=1,n=s,l=lat
pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
पीवान् पीवस् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
केन केन pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
कल्पयसि कल्पय् pos=v,p=2,n=s,l=lat
इति इति pos=i