Original

स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे ।प्रोवाच चैनम् ।अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः ।तदभिवादये भगवन्तम् ।आज्ञापयतु भवान् ।किं करवाणीति ॥ २८ ॥

Segmented

स तत् श्रुत्वा आरुणिः उपाध्याय-वाक्यम् तस्मात् केदारखण्डात् सहसा उत्थाय तम् उपाध्यायम् उपतस्थे प्रोवाच च एनम् अयम् अस्म्य् अत्र केदारखण्डे निःसरमाणम् उदकम् अवारणीयम् संरोद्धुम् संविष्टो भगवत्-शब्दम् श्रुत्वा एव सहसा विदार्य केदारखण्डम् भवन्तम् उपस्थितः तद् अभिवादये भगवन्तम् आज्ञापयतु भवान् किम् करवाणि इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
आरुणिः आरुणि pos=n,g=m,c=1,n=s
उपाध्याय उपाध्याय pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
केदारखण्डात् केदारखण्ड pos=n,g=n,c=5,n=s
सहसा सहसा pos=i
उत्थाय उत्था pos=vi
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अस्म्य् अस् pos=v,p=1,n=s,l=lat
अत्र अत्र pos=i
केदारखण्डे केदारखण्ड pos=n,g=n,c=7,n=s
निःसरमाणम् निःसृ pos=va,g=n,c=2,n=s,f=part
उदकम् उदक pos=n,g=n,c=2,n=s
अवारणीयम् अवारणीय pos=a,g=n,c=2,n=s
संरोद्धुम् संरुध् pos=vi
संविष्टो संविश् pos=va,g=m,c=1,n=s,f=part
भगवत् भगवत् pos=a,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
सहसा सहसा pos=i
विदार्य विदारय् pos=vi
केदारखण्डम् केदारखण्ड pos=n,g=n,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अभिवादये अभिवादय् pos=v,p=1,n=s,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
आज्ञापयतु आज्ञापय् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
इति इति pos=i