Original

तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः ।स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् ॥ २ ॥

Segmented

तेषु तत् सत्रम् उपासीनेषु तत्र श्वा अभ्यागच्छत् सारमेयः स जनमेजयस्य भ्रातृभिः अभिहतो रोरूयमाणो मातुः समीपम् उपागच्छत्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
तत् तद् pos=n,g=n,c=2,n=s
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
उपासीनेषु उपास् pos=va,g=m,c=7,n=p,f=part
तत्र तत्र pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
अभ्यागच्छत् अभ्यागम् pos=v,p=3,n=s,l=lan
सारमेयः सारमेय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जनमेजयस्य जनमेजय pos=n,g=m,c=6,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
अभिहतो अभिहन् pos=va,g=m,c=1,n=s,f=part
रोरूयमाणो रोरूय् pos=va,g=m,c=1,n=s,f=part
मातुः मातृ pos=n,g=f,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
उपागच्छत् उपगम् pos=v,p=3,n=s,l=lan