Original

स एवमुक्तः प्रत्युवाच ।भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः ।महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः ।समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् ।अस्य त्वेकमुपांशुव्रतम् ।यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयम् ।यद्येतदुत्सहसे ततो नयस्वैनमिति ॥ १५ ॥

Segmented

स एवम् उक्तः प्रत्युवाच भो जनमेजय पुत्रो ऽयम् मम सर्प्याम् जातः महा-तपस्वी स्वाध्याय-सम्पन्नः मद्-तपः-वीर्य-संभृतः मद्-शुक्रम् पीतवत्यास् तस्याः कुक्षौ संवृद्धः समर्थो ऽयम् भवतः सर्वाः पाप-कृत्याः शमयितुम् अन्तरेण महादेव-कृत्याम् अस्य त्व् एकम् उपांशु-व्रतम् यद् एनम् कश्चिद् ब्राह्मणः कंचिद् अर्थम् अभियाचेत् तम् तस्मै दद्याद् अयम् यद्य् एतद् उत्सहसे ततो नयस्व एनम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
भो भो pos=i
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सर्प्याम् सर्पी pos=n,g=f,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
मद् मद् pos=n,comp=y
तपः तपस् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
संभृतः सम्भृ pos=va,g=m,c=1,n=s,f=part
मद् मद् pos=n,comp=y
शुक्रम् शुक्र pos=n,g=n,c=2,n=s
पीतवत्यास् पा pos=va,g=f,c=6,n=s,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
संवृद्धः संवृध् pos=va,g=m,c=1,n=s,f=part
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
सर्वाः सर्व pos=n,g=f,c=2,n=p
पाप पाप pos=a,comp=y
कृत्याः कृत्या pos=n,g=f,c=2,n=p
शमयितुम् शमय् pos=vi
अन्तरेण अन्तरेण pos=i
महादेव महादेव pos=n,comp=y
कृत्याम् कृत्या pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
त्व् तु pos=i
एकम् एक pos=n,g=n,c=1,n=s
उपांशु उपांशु pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=1,n=s
यद् यत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभियाचेत् अभियाच् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s
यद्य् यदि pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
उत्सहसे उत्सह् pos=v,p=2,n=s,l=lat
ततो ततस् pos=i
नयस्व नी pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
इति इति pos=i