Original

तमुत्तङ्कः प्रत्युवाच ।भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः ।प्राक्च तेऽभिहितम् ।यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति ।दुष्टे चान्ने नैष मम शापो भविष्यतीति ॥ १३४ ॥

Segmented

तम् उत्तङ्कः प्रत्युवाच भवता अहम् अन्नस्य अशुचि-भावम् आगमय्य प्रत्यनुनीतः प्राक् च ते ऽभिहितम् यस्माद् अदुष्टम् अन्नम् दूषयसि तस्माद् अनपत्यो भविष्यसि इति दुष्टे च अन्ने न एष मम शापो भविष्यति इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
भवता भवत् pos=a,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अन्नस्य अन्न pos=n,g=n,c=6,n=s
अशुचि अशुचि pos=a,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
आगमय्य आगमय् pos=vi
प्रत्यनुनीतः प्रत्यनुनी pos=va,g=m,c=1,n=s,f=part
प्राक् प्राक् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽभिहितम् अभिधा pos=va,g=n,c=1,n=s,f=part
यस्माद् यस्मात् pos=i
अदुष्टम् अदुष्ट pos=a,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
दूषयसि दूषय् pos=v,p=2,n=s,l=lat
तस्माद् तस्मात् pos=i
अनपत्यो अनपत्य pos=a,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
इति इति pos=i
दुष्टे दुष् pos=va,g=n,c=7,n=s,f=part
pos=i
अन्ने अन्न pos=n,g=n,c=7,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शापो शाप pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
इति इति pos=i