Original

तमुवाचोत्तङ्कः ।गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति ॥ १०८ ॥

Segmented

तम् उवाच उत्तङ्कः गुरु-अर्थे कुण्डलाभ्याम् अर्थ्य् आगतो अस्मि इति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान् दातुम् अर्हति इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
अर्थ्य् अर्थिन् pos=a,g=m,c=1,n=s
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
ये यद् pos=n,g=n,c=1,n=d
ते त्वद् pos=n,g=,c=6,n=s
क्षत्रियया क्षत्रिया pos=n,g=f,c=3,n=s
पिनद्धे पिनह् pos=va,g=n,c=1,n=d,f=part
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
ते तद् pos=n,g=n,c=2,n=d
भवान् भवत् pos=a,g=m,c=1,n=s
दातुम् दा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
इति इति pos=i