Original

सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच ।गच्छ पौष्यं राजानम् ।भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले ।ते आनयस्व ।इतश्चतुर्थेऽहनि पुण्यकं भविता ।ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि ।शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि संपादयस्व ।श्रेयो हि ते स्यात्क्षणं कुर्वत इति ॥ १०० ॥

Segmented

सा एवम् उक्ता उपाध्यायिनी उत्तङ्कम् प्रत्युवाच गच्छ पौष्यम् राजानम् भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले ते आनयस्व इतः चतुर्थे ऽहनि पुण्यकम् भविता ताभ्याम् आबद्धाभ्याम् ब्राह्मणान् परिवेष्टुम् इच्छामि शोभमाना यथा ताभ्याम् कुण्डलाभ्याम् तस्मिन्न् अहनि संपादयस्व श्रेयो हि ते स्यात् क्षणम् कुर्वत इति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
उपाध्यायिनी उपाध्यायिनी pos=n,g=f,c=1,n=s
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
गच्छ गम् pos=v,p=2,n=s,l=lot
पौष्यम् पौष्य pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
भिक्षस्व भिक्ष् pos=v,p=2,n=s,l=lot
तस्य तद् pos=n,g=m,c=6,n=s
क्षत्रियया क्षत्रिया pos=n,g=f,c=3,n=s
पिनद्धे पिनह् pos=va,g=n,c=2,n=d,f=part
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
ते तद् pos=n,g=n,c=2,n=d
आनयस्व आनी pos=v,p=2,n=s,l=lot
इतः इतस् pos=i
चतुर्थे चतुर्थ pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
पुण्यकम् पुण्यक pos=n,g=n,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
ताभ्याम् तद् pos=n,g=n,c=3,n=d
आबद्धाभ्याम् आबन्ध् pos=va,g=n,c=3,n=d,f=part
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
परिवेष्टुम् परिविश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
शोभमाना शुभ् pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i
ताभ्याम् तद् pos=n,g=n,c=3,n=d
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
संपादयस्व सम्पादय् pos=v,p=2,n=s,l=lot
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्षणम् क्षण pos=n,g=m,c=2,n=s
कुर्वत कृ pos=va,g=m,c=6,n=s,f=part
इति इति pos=i