Original

ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः ।ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य ॥ २५ ॥

Segmented

ज्वलन्तम् अग्निम् तम् अमित्र-तापनः समास्तरत् पत्त्ररथो नदीभिः ततः प्रचक्रे वपुः अन्यद् अल्पम् प्रवेष्टु-कामः ऽग्निम् अभिप्रशाम्य

Analysis

Word Lemma Parse
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
अग्निम् अग्नि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
समास्तरत् समास्तृ pos=v,p=3,n=s,l=lun
पत्त्ररथो पत्त्ररथ pos=n,g=m,c=1,n=s
नदीभिः नदी pos=n,g=f,c=3,n=p
ततः ततस् pos=i
प्रचक्रे प्रकृ pos=v,p=3,n=s,l=lit
वपुः वपुस् pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
अल्पम् अल्प pos=a,g=n,c=2,n=s
प्रवेष्टु प्रवेष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
अभिप्रशाम्य अभिप्रशामय् pos=vi