Original

महावीर्या महोत्साहास्तेन ते बहुधा क्षताः ।रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥ २१ ॥

Segmented

महा-वीर्याः महा-उत्साहाः तेन ते बहुधा क्षताः रेजुः अभ्र-घन-प्रख्याः रुधिर-ओघ-प्रवर्षिन्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
बहुधा बहुधा pos=i
क्षताः क्षन् pos=va,g=m,c=1,n=p,f=part
रेजुः राज् pos=v,p=3,n=p,l=lit
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
प्रख्याः प्रख्य pos=a,g=m,c=1,n=p
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
प्रवर्षिन् प्रवर्षिन् pos=a,g=m,c=1,n=p