Original

शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः ।त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ॥ ३० ॥

Segmented

शतक्रतुम् अथ उवाच प्रीयमाणः प्रजापतिः त्वद्-सहायौ खगौ एतौ भ्रातरौ ते भविष्यतः

Analysis

Word Lemma Parse
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
प्रीयमाणः प्री pos=va,g=m,c=1,n=s,f=part
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
सहायौ सहाय pos=n,g=m,c=1,n=d
खगौ खग pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
ते त्वद् pos=n,g=,c=6,n=s
भविष्यतः भू pos=v,p=3,n=d,l=lrt