Original

मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् ।अप्रधृष्यमजेयं च देवदानवराक्षसैः ॥ ८ ॥

Segmented

माया-वीर्य-धरम् साक्षाद् अग्निम् इद्धम् इव उद्यतम् अप्रधृष्यम् अजेयम् च देव-दानव-राक्षसैः

Analysis

Word Lemma Parse
माया माया pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
साक्षाद् साक्षात् pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इद्धम् इन्ध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
अप्रधृष्यम् अप्रधृष्य pos=a,g=m,c=2,n=s
अजेयम् अजेय pos=a,g=m,c=2,n=s
pos=i
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
राक्षसैः राक्षस pos=n,g=m,c=3,n=p