Original

तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः ।भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥ ४५ ॥

Segmented

तैः शस्त्रैः भानुमत् ते दिव्य-आभरण-भूषिताः भानुमन्तः सुर-गणाः तस्थुः विगत-कल्मषाः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=n,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
भानुमत् भानुमत् pos=a,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=m,c=1,n=p,f=part
भानुमन्तः भानुमत् pos=a,g=m,c=1,n=p
सुर सुर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
विगत विगम् pos=va,comp=y,f=part
कल्मषाः कल्मष pos=n,g=m,c=1,n=p