Original

भूतसंघसहस्राश्च दीनाश्चक्रुर्महास्वनम् ।रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः ।तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥ २८ ॥

Segmented

भूत-संघ-सहस्राः च दीनाः चक्रुः महा-स्वनम् रुरुवुः वारणाः च एव तथा एव मृग-पक्षिणः तेन शब्देन वित्रेसुः गङ्गा-उदधि-चराः झषाः

Analysis

Word Lemma Parse
भूत भूत pos=n,comp=y
संघ संघ pos=n,comp=y
सहस्राः सहस्र pos=n,g=m,c=1,n=p
pos=i
दीनाः दीन pos=a,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
रुरुवुः रु pos=v,p=3,n=p,l=lit
वारणाः वारण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
गङ्गा गङ्गा pos=n,comp=y
उदधि उदधि pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
झषाः झष pos=n,g=m,c=1,n=p