Original

स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् ।व्यधमच्छरसंपातैः प्राणिनः खाण्डवालयान् ॥ २३ ॥

Segmented

स मारुत इव अभ्राणि नाशयित्वा अर्जुनः सुरान् व्यधमत् शर-सम्पातैः प्राणिनः खाण्डव-आलयान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मारुत मारुत pos=n,g=m,c=1,n=s
इव इव pos=i
अभ्राणि अभ्र pos=n,g=n,c=2,n=p
नाशयित्वा नाशय् pos=vi
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सुरान् सुर pos=n,g=m,c=2,n=p
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
सम्पातैः सम्पात pos=n,g=m,c=3,n=p
प्राणिनः प्राणिन् pos=n,g=m,c=2,n=p
खाण्डव खाण्डव pos=n,comp=y
आलयान् आलय pos=n,g=m,c=2,n=p