Original

तथैवोरगसंघाताः पाण्डवस्य समीपतः ।उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ॥ २१ ॥

Segmented

तथा एव उरग-संघाताः पाण्डवस्य समीपतः उत्सृजन्तो विषम् घोरम् निश्चेरुः ज्वलित-आननाः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
उरग उरग pos=n,comp=y
संघाताः संघात pos=n,g=m,c=1,n=p
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
समीपतः समीपतस् pos=i
उत्सृजन्तो उत्सृज् pos=va,g=m,c=1,n=p,f=part
विषम् विष pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
निश्चेरुः निश्चर् pos=v,p=3,n=p,l=lit
ज्वलित ज्वल् pos=va,comp=y,f=part
आननाः आनन pos=n,g=m,c=1,n=p