Original

अनाधृष्टिर्महातेजा उद्धवश्च महायशाः ।साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ॥ २६ ॥

Segmented

अनाधृष्टिः महा-तेजाः उद्धवः च महा-यशाः साक्षाद् बृहस्पतेः शिष्यो महा-बुद्धिः महा-यशाः

Analysis

Word Lemma Parse
अनाधृष्टिः अनाधृष्टि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
उद्धवः उद्धव pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s