Original

प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् ।सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ।तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ॥ २० ॥

Segmented

प्रत्युत्थाय च ताम् कृष्णा स्वसारम् माधवस्य ताम् सस्वजे च अवदत् प्रीता निःसपत्नो ऽस्तु ते पतिः तथा एव मुदिता भद्रा ताम् उवाच एवम् अस्तु इति

Analysis

Word Lemma Parse
प्रत्युत्थाय प्रत्युत्था pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
माधवस्य माधव pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सस्वजे स्वज् pos=v,p=3,n=s,l=lit
pos=i
अवदत् वद् pos=v,p=3,n=s,l=lan
प्रीता प्री pos=va,g=f,c=1,n=s,f=part
निःसपत्नो निःसपत्न pos=a,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
मुदिता मुद् pos=va,g=f,c=1,n=s,f=part
भद्रा भद्रा pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i