Original

उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः ।पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ।पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ॥ १३ ॥

Segmented

उषित्वा तत्र कौन्तेयः संवत्सर-पराः क्षपाः पुष्करेषु ततः शिष्टम् कालम् वर्तितवान् प्रभुः पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थम् आविशत्

Analysis

Word Lemma Parse
उषित्वा वस् pos=vi
तत्र तत्र pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
संवत्सर संवत्सर pos=n,comp=y
पराः पर pos=n,g=f,c=2,n=p
क्षपाः क्षपा pos=n,g=f,c=2,n=p
पुष्करेषु पुष्कर pos=n,g=m,c=7,n=p
ततः ततस् pos=i
शिष्टम् शास् pos=va,g=m,c=2,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
वर्तितवान् वर्तय् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=n,g=m,c=1,n=s
पूर्णे पूर्ण pos=a,g=m,c=7,n=s
तु तु pos=i
द्वादशे द्वादश pos=a,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
खाण्डवप्रस्थम् खाण्डवप्रस्थ pos=n,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan