Original

वैखानसा वालखिल्या वानप्रस्था मरीचिपाः ।अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ।ऋषयः सर्व एवैते पितामहमुपासते ॥ ५ ॥

Segmented

वैखानसा वालखिल्या वानप्रस्था मरीचिपाः अजाः च एव अविमूढाः च तेजः-गर्भाः तपस्विनः ऋषयः सर्व एव एते पितामहम् उपासते

Analysis

Word Lemma Parse
वैखानसा वैखानस pos=n,g=m,c=1,n=p
वालखिल्या वालखिल्य pos=n,g=m,c=1,n=p
वानप्रस्था वानप्रस्थ pos=n,g=m,c=1,n=p
मरीचिपाः मरीचिप pos=n,g=m,c=1,n=p
अजाः अज pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अविमूढाः अविमूढ pos=n,g=m,c=1,n=p
pos=i
तेजः तेजस् pos=n,comp=y
गर्भाः गर्भ pos=n,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat