Original

अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु ।नारदस्त्वथ देवर्षिराजगाम यदृच्छया ।आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ॥ ९ ॥

Segmented

अथ तेषु उपविष्टेषु सर्वेषु एव महात्मसु नारदः तु अथ देवर्षिः आजगाम यदृच्छया आसनम् रुचिरम् तस्मै प्रददौ स्वम् युधिष्ठिरः

Analysis

Word Lemma Parse
अथ अथ pos=i
तेषु तद् pos=n,g=m,c=7,n=p
उपविष्टेषु उपविश् pos=va,g=m,c=7,n=p,f=part
सर्वेषु सर्व pos=n,g=m,c=7,n=p
एव एव pos=i
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
नारदः नारद pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
देवर्षिः देवर्षि pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=n,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s