Original

देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि ।प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् ॥ १० ॥

Segmented

देवर्षेः उपविष्टस्य स्वयम् अर्घ्यम् यथाविधि प्रादाद् युधिष्ठिरो धीमान् राज्यम् च अस्मै न्यवेदयत्

Analysis

Word Lemma Parse
देवर्षेः देवर्षि pos=n,g=m,c=6,n=s
उपविष्टस्य उपविश् pos=va,g=m,c=6,n=s,f=part
स्वयम् स्वयम् pos=i
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
यथाविधि यथाविधि pos=i
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan