Original

अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः ।मयस्य मोक्षो ज्वलनाद्भुजंगस्य च मोक्षणम् ।महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसंभवः ॥ ९४ ॥

Segmented

अभिमन्योः सुभद्रायाम् जन्म च उत्तम-तेजसः मयस्य मोक्षो ज्वलनाद् भुजंगस्य च मोक्षणम् महा-ऋषेः मन्दपालस्य तनय-सम्भवः

Analysis

Word Lemma Parse
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
सुभद्रायाम् सुभद्रा pos=n,g=f,c=7,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
pos=i
उत्तम उत्तम pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
मयस्य मय pos=n,g=m,c=6,n=s
मोक्षो मोक्ष pos=n,g=m,c=1,n=s
ज्वलनाद् ज्वलन pos=n,g=m,c=5,n=s
भुजंगस्य भुजंग pos=n,g=m,c=6,n=s
pos=i
मोक्षणम् मोक्षण pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
मन्दपालस्य मन्दपाल pos=n,g=m,c=6,n=s
तनय तनय pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s