Original

पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् ।पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥ ७२ ॥

Segmented

पौष्ये पर्वणि माहात्म्यम् उत्तङ्कस्य उपवर्णितम् पौलोमे भृगु-वंशस्य विस्तारः परिकीर्तितः

Analysis

Word Lemma Parse
पौष्ये पौष्य pos=a,g=n,c=7,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
उत्तङ्कस्य उत्तङ्क pos=n,g=m,c=6,n=s
उपवर्णितम् उपवर्णय् pos=va,g=n,c=1,n=s,f=part
पौलोमे पौलोम pos=a,g=n,c=7,n=s
भृगु भृगु pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
विस्तारः विस्तार pos=n,g=m,c=1,n=s
परिकीर्तितः परिकीर्तय् pos=va,g=m,c=1,n=s,f=part