Original

अतः परं निबोधेदं मौसलं पर्व दारुणम् ।यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ।ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥ २२० ॥

Segmented

अतः परम् निबोध इदम् मौसलम् पर्व दारुणम् यत्र ते पुरुष-व्याघ्राः शस्त्र-स्पर्श-सहाः युधि ब्रह्मदण्ड-विनिष्पिष्टाः समीपे लवण-अम्भसः

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम् पर pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
मौसलम् मौसल pos=a,g=n,c=2,n=s
पर्व पर्वन् pos=n,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
सहाः सह pos=a,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
ब्रह्मदण्ड ब्रह्मदण्ड pos=n,comp=y
विनिष्पिष्टाः विनिष्पिष् pos=va,g=m,c=1,n=p,f=part
समीपे समीप pos=n,g=n,c=7,n=s
लवण लवण pos=a,comp=y
अम्भसः अम्भस् pos=n,g=n,c=6,n=s