Original

धृतराष्ट्र उवाच ।यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम ।सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता ।यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ॥ २२ ॥

Segmented

धृतराष्ट्र उवाच यथा एव पाण्डोः पुत्राः ते तथा एव अभ्यधिकाः मम सा इयम् अभ्यधिका प्रीतिः वृद्धिः विदुर मे मता यत् ते कुशलिनो वीरा मित्रवत् च पाण्डवाः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
एव एव pos=i
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अभ्यधिकाः अभ्यधिक pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अभ्यधिका अभ्यधिक pos=a,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
विदुर विदुर pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
यत् यत् pos=i
ते तद् pos=n,g=m,c=1,n=p
कुशलिनो कुशलिन् pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
मित्रवत् मित्रवत् pos=a,g=m,c=1,n=p
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p