Original

सा हृष्टरूपैव तु राजपुत्री तस्या वचः साध्वविशङ्कमाना ।यथावदुक्तं प्रचकार साध्वी ते चापि सर्वेऽभ्यवजह्रुरन्नम् ॥ ७ ॥

Segmented

सा हृष्ट-रूपा एव तु राज-पुत्री तस्या वचः साधु अविशङ्कमाना यथावद् उक्तम् प्रचकार साध्वी ते च अपि सर्वे ऽभ्यवजह्रुः अन्नम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूपा रूप pos=n,g=f,c=1,n=s
एव एव pos=i
तु तु pos=i
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
अविशङ्कमाना अविशङ्कमान pos=a,g=f,c=1,n=s
यथावद् यथावत् pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
प्रचकार प्रकृ pos=v,p=3,n=s,l=lit
साध्वी साधु pos=a,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽभ्यवजह्रुः अभ्यवहृ pos=v,p=3,n=p,l=lit
अन्नम् अन्न pos=n,g=n,c=2,n=s