Original

तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् ।राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ॥ २४ ॥

Segmented

तत्र उपविष्टान् ददृशुः महा-सत्त्व-पराक्रमान् राज-सिंहान् महाभागान् कृष्ण-अगुरु-विभूषितान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपविष्टान् उपविश् pos=va,g=m,c=2,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
पराक्रमान् पराक्रम pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
सिंहान् सिंह pos=n,g=m,c=2,n=p
महाभागान् महाभाग pos=a,g=m,c=2,n=p
कृष्ण कृष्ण pos=a,comp=y
अगुरु अगुरु pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part