Original

ब्राह्मणा ऊचुः ।गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् ।स्वयंवरो महांस्तत्र भविता सुमहाधनः ॥ ५ ॥

Segmented

ब्राह्मणा ऊचुः गच्छत अद्य एव पाञ्चालान् द्रुपदस्य निवेशनम् स्वयंवरो महान् तत्र भविता सु महाधनः

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
गच्छत गम् pos=v,p=2,n=p,l=lot
अद्य अद्य pos=i
एव एव pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
स्वयंवरो स्वयंवर pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
भविता भू pos=v,p=3,n=s,l=lrt
सु सु pos=i
महाधनः महाधन pos=a,g=m,c=1,n=s