Original

वैशंपायन उवाच ।ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः ।प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् ते नर-शार्दूलाः भ्रातरः पञ्च पाण्डवाः प्रययुः द्रौपदीम् द्रष्टुम् तम् च देव-महा-उत्सवम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
द्रष्टुम् दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
देव देव pos=n,comp=y
महा महत् pos=a,comp=y
उत्सवम् उत्सव pos=n,g=m,c=2,n=s