Original

ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः ।ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ॥ २३ ॥

Segmented

ऊचुः च एनाम् महाभागाम् क्षत्रियाः ते विचेतसः ज्योतिः-प्रहीणाः दुःख-आर्ताः शान्त-अर्चिस् इव अग्नयः

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
ज्योतिः ज्योतिस् pos=n,comp=y
प्रहीणाः प्रहा pos=va,g=m,c=1,n=p,f=part
दुःख दुःख pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
शान्त शम् pos=va,comp=y,f=part
अर्चिस् अर्चिस् pos=n,g=m,c=1,n=p
इव इव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p