Original

तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा ।आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ॥ २१ ॥

Segmented

तम् उवाच अथ राज-ऋषिः द्विजम् मित्र-सहः तदा आस्स्व ब्रह्मन् त्वम् अत्र एव मुहूर्तम् इति सान्त्वयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
मित्र मित्र pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
तदा तदा pos=i
आस्स्व आस् pos=v,p=2,n=s,l=lot
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अत्र अत्र pos=i
एव एव pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इति इति pos=i
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part