Original

दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा ।विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ॥ ४१ ॥

Segmented

दृष्ट्वा तन् महद् आश्चर्यम् ब्रह्म-तेजः-भवम् तदा विश्वामित्रः क्षत्र-भावात् निर्विण्णो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तन् तद् pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
तेजः तेजस् pos=n,comp=y
भवम् भव pos=n,g=n,c=2,n=s
तदा तदा pos=i
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
निर्विण्णो निर्विण्ण pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan