Original

तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा ।नानावरणसंछन्नैर्नानायुधधरैस्तथा ।अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ॥ ३७ ॥

Segmented

तैः विसृष्टैः महत् सैन्यम् नाना म्लेच्छ-गणैः तदा नाना आवरण-संछन्नैः नाना आयुध-धरैः तथा अवाकीर्यत संरब्धैः विश्वामित्रस्य पश्यतः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
विसृष्टैः विसृज् pos=va,g=m,c=3,n=p,f=part
महत् महत् pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
नाना नाना pos=i
म्लेच्छ म्लेच्छ pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तदा तदा pos=i
नाना नाना pos=i
आवरण आवरण pos=n,comp=y
संछन्नैः संछद् pos=va,g=m,c=3,n=p,f=part
नाना नाना pos=i
आयुध आयुध pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
तथा तथा pos=i
अवाकीर्यत अवकृ pos=v,p=3,n=s,l=lan
संरब्धैः संरभ् pos=va,g=m,c=3,n=p,f=part
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part