Original

विश्वामित्र उवाच ।क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः ।ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ॥ १८ ॥

Segmented

विश्वामित्र उवाच क्षत्रियो ऽहम् भवान् विप्रः तपः-स्वाध्याय-साधनः ब्राह्मणेषु कुतो वीर्यम् प्रशान्तेषु धृत-आत्मसु

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
साधनः साधन pos=n,g=m,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
कुतो कुतस् pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
प्रशान्तेषु प्रशम् pos=va,g=m,c=7,n=p,f=part
धृत धृ pos=va,comp=y,f=part
आत्मसु आत्मन् pos=n,g=m,c=7,n=p