Original

उक्तवानस्मि येन त्वां तापत्य इति यद्वचः ।तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम ॥ ५ ॥

Segmented

उक्तवान् अस्मि येन त्वाम् तापत्य इति यद् वचः तत् ते ऽहम् कथयिष्यामि शृणुष्व एकमनाः मम

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तापत्य तापत्य pos=n,g=m,c=1,n=s
इति इति pos=i
यद् यद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s