Original

सूत उवाच ।नारायणवचः श्रुत्वा बलिनस्ते महोदधेः ।तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥ ३२ ॥

Segmented

सूत उवाच नारायण-वचः श्रुत्वा बलिनः ते महा-उदधेः तत् पयः सहिता भूयस् चक्रिरे भृशम् आकुलम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नारायण नारायण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
बलिनः बलिन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
उदधेः उदधि pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s
सहिता सहित pos=a,g=m,c=1,n=p
भूयस् भूयस् pos=i
चक्रिरे कृ pos=v,p=3,n=p,l=lit
भृशम् भृशम् pos=i
आकुलम् आकुल pos=a,g=n,c=2,n=s