Original

ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् ।दैवतान्यर्चयां चक्रुः सर्व एव विशां पते ॥ ११ ॥

Segmented

ततस् ते विस्मिताः सर्वे कर्म दृष्ट्वा अतिमानुषम् दैवतानि अर्चयांचक्रुः सर्व एव विशाम् पते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अतिमानुषम् अतिमानुष pos=a,g=n,c=2,n=s
दैवतानि दैवत pos=n,g=n,c=2,n=p
अर्चयांचक्रुः अर्चय् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s