Original

वैशंपायन उवाच ।तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः ।निष्पपात गृहाद्राजन्सहैव परिचारिभिः ॥ १ ॥

Segmented

वैशंपायन उवाच तेन शब्देन वित्रस्तो जनः तस्य अथ रक्षसः निष्पपात गृहाद् राजन् सह एव परिचारिभिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्तो वित्रस् pos=va,g=m,c=1,n=s,f=part
जनः जन pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
अथ अथ pos=i
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit
गृहाद् गृह pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सह सह pos=i
एव एव pos=i
परिचारिभिः परिचारिन् pos=a,g=m,c=3,n=p