Original

ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः ।पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥ १९ ॥

Segmented

ततः श्रान्ताः पिपासा-आर्ताः निद्रा-अन्धाः पाण्डु-नन्दनाः पुनः ऊचुः महा-वीर्यम् भीमसेनम् इदम् वचः

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्रान्ताः श्रम् pos=va,g=m,c=1,n=p,f=part
पिपासा पिपासा pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
निद्रा निद्रा pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s