Original

पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् ।उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥ ६ ॥

Segmented

पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात्

Analysis

Word Lemma Parse
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
वारणावतम् वारणावत pos=n,g=n,c=2,n=s
उत्सवे उत्सव pos=n,g=m,c=7,n=s
विहरिष्यन्ति विहृ pos=v,p=3,n=p,l=lrt
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s