Original

ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः ।परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥ २२ ॥

Segmented

ततो दुर्योधनेन अपि स भ्रात्रा समर-उद्यतः परिष्वक्तः स्थितः कर्णः प्रगृह्य स शरम् धनुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
अपि अपि pos=i
pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
समर समर pos=n,comp=y
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
परिष्वक्तः परिष्वज् pos=va,g=m,c=1,n=s,f=part
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s