Original

स तैस्तदा भ्रातृभिरुद्यतायुधैर्वृतो गदापाणिरवस्थितैः स्थितः ।बभौ यथा दानवसंक्षये पुरा पुरंदरो देवगणैः समावृतः ॥ ३२ ॥

Segmented

स तैः तदा भ्रातृभिः उद्यत-आयुधैः वृतो गदा-पाणिः अवस्थितैः स्थितः बभौ यथा दानव-संक्षये पुरा पुरंदरो देव-गणैः समावृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
तदा तदा pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
उद्यत उद्यम् pos=va,comp=y,f=part
आयुधैः आयुध pos=n,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अवस्थितैः अवस्था pos=va,g=m,c=3,n=p,f=part
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
यथा यथा pos=i
दानव दानव pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
पुरंदरो पुरंदर pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part