Original

तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः ।आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ।इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ॥ ७१ ॥

Segmented

तद्-वाक्य-सम-कालम् तु बीभत्सुः निशितैः शरैः आवापैः पञ्चभिः ग्राहम् मग्नम् अम्भसि अताडयत् इतरे तु विसंमूढाः तत्र तत्र प्रपेदिरे

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
सम सम pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
तु तु pos=i
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
आवापैः आवाप pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
ग्राहम् ग्राह pos=n,g=m,c=2,n=s
मग्नम् मज्ज् pos=va,g=m,c=2,n=s,f=part
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
इतरे इतर pos=n,g=m,c=1,n=p
तु तु pos=i
विसंमूढाः विसंमुह् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit