Original

कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् ।अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ॥ ४६ ॥

Segmented

कृत्रिमम् भासम् आरोप्य वृक्ष-अग्रे शिल्पिभिः कृतम् अविज्ञातम् कुमाराणाम् लक्ष्य-भूतम् उपादिशत्

Analysis

Word Lemma Parse
कृत्रिमम् कृत्रिम pos=a,g=m,c=2,n=s
भासम् भास pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
वृक्ष वृक्ष pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
शिल्पिभिः शिल्पिन् pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
अविज्ञातम् अविज्ञात pos=a,g=m,c=2,n=s
कुमाराणाम् कुमार pos=n,g=m,c=6,n=p
लक्ष्य लक्ष्य pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
उपादिशत् उपदिश् pos=v,p=3,n=s,l=lan