Original

अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः ।तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ।एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ॥ ४३ ॥

Segmented

अस्त्रे गुरु-अनुरागे च विशिष्टो ऽभवद् अर्जुनः तुल्येषु अस्त्र-उपदेशेषु सौष्ठवेन च वीर्यवान् एकः सर्व-कुमाराणाम् बभूव अतिरथः ऽर्जुनः

Analysis

Word Lemma Parse
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
गुरु गुरु pos=n,comp=y
अनुरागे अनुराग pos=n,g=m,c=7,n=s
pos=i
विशिष्टो विशिष् pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तुल्येषु तुल्य pos=a,g=m,c=7,n=p
अस्त्र अस्त्र pos=n,comp=y
उपदेशेषु उपदेश pos=n,g=m,c=7,n=p
सौष्ठवेन सौष्ठव pos=n,g=n,c=3,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कुमाराणाम् कुमार pos=n,g=m,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s